|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.126. अध्यायः 126
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
व्यासेन शुकम्प्रति कपिलानां गवां स्वाङ्गप्रवेशनेन देवेभ्यः प्रच्छन्नमात्मनोगोपनात्परितुष्टस्याग्नेर्वरात्सर्वश्रैष्ठ्यप्राप्तिकथनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
`शुक उवाच।
नानावर्णैरुपेतानां गवां किं मुनिसत्तम।
कपिलाः सर्ववर्णेषु वरिष्ठत्वमवाप्नुवन्॥ 13-126-1(86246)
व्यास उवाच। 13-126-2x(7156)
शृणु पुत्र यथा गोषु वरिष्ठाः कपिलाः स्मृताः।
कपिलत्वं च सम्प्राप्ताः पूज्याश्चि सततं नृषु॥ 13-126-2(86247)
अग्निः पुरापचक्राम देवेभ्य इति नः श्रुतम्।
देवेभ्यो मां छादयत शरण्याः शरणं गतम्॥ 13-126-3(86248)
ऊचुस्ताः सहितास्तत्र स्वागतं तव पावकः।
इह गुप्तस्त्वमस्माभिर्न देवैरुपलप्स्यसे॥ 13-126-4(86249)
अथ देवा विवित्सन्तः पावकं परिचक्रमुः।
गोषु गुप्तं च विज्ञाय ताः क्षिप्रमुपतस्थिरे॥ 13-126-5(86250)
युष्मासु निवसत्यग्निरिति गाः समचूचुदन्।
प्रकाश्यतां हुतवहो लोकान्न च्छेत्तुमर्हथ॥ 13-126-6(86251)
एवमस्त्वित्युनुज्ञाय पावकं समदर्शयन्॥ 13-126-7(86252)
अधिगम्य पावकं तुष्टास्ते देवाः सद्य एव तु।
अग्निं प्रचोदयामासुः क्रियतां गोष्वनुग्रहः॥ 13-126-8(86253)
गवां तु यासां गात्रेषु पावकः समवस्थितः।
कपिलत्वमनुप्राप्ताः सर्वश्रेष्ठत्वमेव च॥ 13-126-9(86254)
महाफलत्वं लोके च ददौ तासां हुताशनः।
तस्माद्धि सर्ववर्णानां कपिलां गां प्रदापय।
श्रोत्रियाय प्रशान्ताय प्रयतायाग्निहोत्रिणे॥ 13-126-10(86255)
यावन्ति रोमाणि भन्ति धेन्वा
युगानि तावन्ति पुनाति दातॄन्।
प्रतिग्रहीतॄंश्च पुनाति दत्ता
शिष्टे तु गौर्वै प्रतिपादनेन॥ ॥ 13-126-11(86256)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षड्विंशत्यधिकशततमोऽध्यायः॥ 126 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|